वांछित मन्त्र चुनें

दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् । यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥

अंग्रेज़ी लिप्यंतरण

devebhir nv iṣito yajñiyebhir agniṁ stoṣāṇy ajaram bṛhantam | yo bhānunā pṛthivīṁ dyām utemām ātatāna rodasī antarikṣam ||

पद पाठ

दे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् । यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒त॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥ १०.८८.३

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:3 | अष्टक:8» अध्याय:4» वर्ग:10» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यज्ञियेभिः-देवेभिः) पूजनीय विद्वानों द्वारा (नु-इषितः) शीघ्रप्रेरित उपदिष्ट (अजरं बृहन्तम्) जरारहित महान् (अग्निम्) अग्रणायक परमात्मा की (स्तोषामि) स्तुति करता हूँ (रोदसी) द्यावापृथिवी के मध्य में वर्तमान (अन्तरिक्षम्-आततान) अन्तरिक्ष को तानता है, रचता है ॥३॥
भावार्थभाषाः - पूजनीय विद्वानों से शिक्षा पाकर महान् परमात्मा की स्तुति करनी चाहिए। जिसने द्युलोक, पृथिवीलोक तथा दोनों के मध्य में अन्तरिक्ष को उत्पन्न किया है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यज्ञियेभिः-देवेभिः) पूजनार्हैः “यज्ञियस्य पूजनीयस्य” [ऋ० ३।३२।७ दयानन्दः] विद्वद्भिः (नु-हर्षितः) क्षिप्रं प्रेरित उपदिष्टः (अजरं बृहन्तम्-अग्निं स्तोषामि) जरारहितमनश्वरं महान्तमग्रणायकं परमात्मानं स्तौमि (यः भानुना) यः स्वतेजसा (इमां पृथिवीं द्याम्) एतां पृथिवीं द्युलोकं च (उत) अपि तु (रोदसी-अन्तरिक्षम्-आततान) रोदस्योर्द्यावापृथिव्योर्मध्ये वर्तमानमन्तरिक्षमपि चातनोति रचयति ॥३॥